ॐ
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्॥
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥
कर्पूरगौरम करूणावतारम संसारसारम
भुजगेन्द्रहारम।
सदावसंतम हृदयारविंदे भवमभवानी सहितं नमामि॥
वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम्।
देवकी-परमानन्दं कृष्णं वन्दे जगद् गुरुम्॥
नीलाम्बुज श्यामल कोमलांग सीता समारोपित वाम
भागम्।
पाणौ महा सायक चारु चापं नमामि रामं रघुवंश
नाथम्॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा
त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम
देव देव॥
Comments
Post a Comment